Original

सृञ्जयास्तु ततो हृष्टा दृष्ट्वा भीष्मं महारथम् ।सिंहनादान्बहुविधांश्चक्रुः शङ्खविमिश्रितान् ॥ २७ ॥

Segmented

सृञ्जयाः तु ततो हृष्टा दृष्ट्वा भीष्मम् महा-रथम् सिंहनादान् बहुविधान् चक्रुः शङ्ख-विमिश्रितान्

Analysis

Word Lemma Parse
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
तु तु pos=i
ततो ततस् pos=i
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
दृष्ट्वा दृश् pos=vi
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
सिंहनादान् सिंहनाद pos=n,g=m,c=2,n=p
बहुविधान् बहुविध pos=a,g=m,c=2,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
शङ्ख शङ्ख pos=n,comp=y
विमिश्रितान् विमिश्रय् pos=va,g=m,c=2,n=p,f=part