Original

कृपेण शल्येन शलेन चैव तथा विभो चित्रसेनेन चाजौ ।विद्धाः शरैस्तेऽतिविवृद्धकोपैर्देवा यथा दैत्यगणैः समेतैः ॥ १६ ॥

Segmented

कृपेण शल्येन शलेन च एव तथा विभो चित्रसेनेन च आजौ विद्धाः शरैः ते अति विवृद्ध-कोपैः देवा यथा दैत्य-गणैः समेतैः

Analysis

Word Lemma Parse
कृपेण कृप pos=n,g=m,c=3,n=s
शल्येन शल्य pos=n,g=m,c=3,n=s
शलेन शल pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
विभो विभु pos=a,g=m,c=8,n=s
चित्रसेनेन चित्रसेन pos=n,g=m,c=3,n=s
pos=i
आजौ आजि pos=n,g=m,c=7,n=s
विद्धाः व्यध् pos=va,g=m,c=1,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
अति अति pos=i
विवृद्ध विवृध् pos=va,comp=y,f=part
कोपैः कोप pos=n,g=m,c=3,n=p
देवा देव pos=n,g=m,c=1,n=p
यथा यथा pos=i
दैत्य दैत्य pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
समेतैः समे pos=va,g=m,c=3,n=p,f=part