Original

पार्थोऽपि तानापततः समीक्ष्य त्रिगर्तराज्ञा सहितान्नृवीरान् ।विध्वंसयित्वा समरे धनुष्मान्गाण्डीवमुक्तैर्निशितैः पृषत्कैः ।भीष्मं यियासुर्युधि संददर्श दुर्योधनं सैन्धवादींश्च राज्ञः ॥ १० ॥

Segmented

पार्थो ऽपि तान् आपततः समीक्ष्य त्रिगर्त-राज्ञा सहितान् नृ-वीरान् विध्वंसयित्वा समरे धनुष्मान् गाण्डीव-मुक्तैः निशितैः पृषत्कैः भीष्मम् यियासुः युधि संददर्श दुर्योधनम् सैन्धव-आदीन् च राज्ञः

Analysis

Word Lemma Parse
पार्थो पार्थ pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
तान् तद् pos=n,g=m,c=2,n=p
आपततः आपत् pos=va,g=m,c=2,n=p,f=part
समीक्ष्य समीक्ष् pos=vi
त्रिगर्त त्रिगर्त pos=n,comp=y
राज्ञा राजन् pos=n,g=m,c=3,n=s
सहितान् सहित pos=a,g=m,c=2,n=p
नृ नृ pos=n,comp=y
वीरान् वीर pos=n,g=m,c=2,n=p
विध्वंसयित्वा विध्वंसय् pos=vi
समरे समर pos=n,g=n,c=7,n=s
धनुष्मान् धनुष्मत् pos=a,g=m,c=1,n=s
गाण्डीव गाण्डीव pos=n,comp=y
मुक्तैः मुच् pos=va,g=m,c=3,n=p,f=part
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
पृषत्कैः पृषत्क pos=n,g=m,c=3,n=p
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
यियासुः यियासु pos=a,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
संददर्श संदृश् pos=v,p=3,n=s,l=lit
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
सैन्धव सैन्धव pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
pos=i
राज्ञः राजन् pos=n,g=m,c=2,n=p