Original

संजय उवाच ।दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे ।उत्तराः कुरवो राजन्पुण्याः सिद्धनिषेविताः ॥ २ ॥

Segmented

संजय उवाच दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथा उत्तरे उत्तराः कुरवो राजन् पुण्याः सिद्ध-निषेविताः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दक्षिणेन दक्षिणेन pos=i
तु तु pos=i
नीलस्य नील pos=n,g=m,c=6,n=s
मेरोः मेरु pos=n,g=m,c=6,n=s
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
तथा तथा pos=i
उत्तरे उत्तर pos=a,g=m,c=7,n=s
उत्तराः उत्तर pos=a,g=m,c=1,n=p
कुरवो कुरु pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
पुण्याः पुण्य pos=a,g=m,c=1,n=p
सिद्ध सिद्ध pos=n,comp=y
निषेविताः निषेव् pos=va,g=m,c=1,n=p,f=part