Original

आवन्त्यौ तु महेष्वासौ महात्मानौ महाबलौ ।इरावन्तमभिप्रेक्ष्य समेयातां रणोत्कटौ ।तेषां प्रववृते युद्धं तुमुलं लोमहर्षणम् ॥ १२ ॥

Segmented

आवन्त्यौ तु महा-इष्वासौ महात्मानौ महा-बलौ इरावन्तम् अभिप्रेक्ष्य समेयाताम् रण-उत्कटौ तेषाम् प्रववृते युद्धम् तुमुलम् लोम-हर्षणम्

Analysis

Word Lemma Parse
आवन्त्यौ आवन्त्य pos=n,g=m,c=1,n=d
तु तु pos=i
महा महत् pos=a,comp=y
इष्वासौ इष्वास pos=n,g=m,c=1,n=d
महात्मानौ महात्मन् pos=a,g=m,c=1,n=d
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=1,n=d
इरावन्तम् इरावन्त् pos=n,g=m,c=2,n=s
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
समेयाताम् समे pos=v,p=3,n=d,l=vidhilin
रण रण pos=n,comp=y
उत्कटौ उत्कट pos=a,g=m,c=1,n=d
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s