Original

ततस्तु तौ पितापुत्रौ भारद्वाजं रथे स्थितौ ।महता शरवर्षेण वारयामासतुर्बलात् ॥ १९ ॥

Segmented

ततस् तु तौ पितापुत्रौ भारद्वाजम् रथे स्थितौ महता शर-वर्षेण वारयामासतुः बलात्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
तौ तद् pos=n,g=m,c=1,n=d
पितापुत्रौ पितापुत्र pos=n,g=m,c=1,n=d
भारद्वाजम् भारद्वाज pos=n,g=m,c=2,n=s
रथे रथ pos=n,g=m,c=7,n=s
स्थितौ स्था pos=va,g=m,c=1,n=d,f=part
महता महत् pos=a,g=m,c=3,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
वारयामासतुः वारय् pos=v,p=3,n=d,l=lit
बलात् बल pos=n,g=n,c=5,n=s