Original

तथा व्यूढेष्वनीकेषु यथास्थानमवस्थिताः ।रथिनः सादिनश्चैव सिंहनादमथानदन् ॥ २२ ॥

Segmented

तथा व्यूढेषु अनीकेषु यथास्थानम् अवस्थिताः रथिनः सादिनः च एव सिंहनादम् अथ अनदन्

Analysis

Word Lemma Parse
तथा तथा pos=i
व्यूढेषु व्यूह् pos=va,g=m,c=7,n=p,f=part
अनीकेषु अनीक pos=n,g=m,c=7,n=p
यथास्थानम् यथास्थानम् pos=i
अवस्थिताः अवस्था pos=va,g=m,c=1,n=p,f=part
रथिनः रथिन् pos=n,g=m,c=1,n=p
सादिनः सादिन् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
अथ अथ pos=i
अनदन् नद् pos=v,p=3,n=p,l=lan