Original

भीष्मेण धार्तराष्ट्राणां व्यूढः प्रत्यङ्मुखो युधि ।मण्डलः सुमहाव्यूहो दुर्भेद्योऽमित्रघातिनाम् ।सर्वतः शुशुभे राजन्रणेऽरीणां दुरासदः ॥ २० ॥

Segmented

भीष्मेण धार्तराष्ट्राणाम् व्यूढः प्रत्यक्-मुखः युधि मण्डलः सु महा-व्यूहः दुर्भेद्यो अमित्र-घातिनाम् सर्वतः शुशुभे राजन् रणे ऽरीणाम् दुरासदः

Analysis

Word Lemma Parse
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
धार्तराष्ट्राणाम् धार्तराष्ट्र pos=n,g=m,c=6,n=p
व्यूढः व्यूह् pos=va,g=m,c=1,n=s,f=part
प्रत्यक् प्रत्यञ्च् pos=a,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
मण्डलः मण्डल pos=n,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
व्यूहः व्यूह pos=n,g=m,c=1,n=s
दुर्भेद्यो दुर्भेद्य pos=a,g=m,c=1,n=s
अमित्र अमित्र pos=n,comp=y
घातिनाम् घातिन् pos=a,g=m,c=6,n=p
सर्वतः सर्वतस् pos=i
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
रणे रण pos=n,g=m,c=7,n=s
ऽरीणाम् अरि pos=n,g=m,c=6,n=p
दुरासदः दुरासद pos=a,g=m,c=1,n=s