Original

छाद्यमानं शरव्रातैः शतानीकं यशस्विनम् ।अभ्यधावन्त संरब्धाः केकयाः पञ्च सोदराः ॥ ५० ॥

Segmented

छाद्यमानम् शर-व्रातैः शतानीकम् यशस्विनम् अभ्यधावन्त संरब्धाः केकयाः पञ्च सोदराः

Analysis

Word Lemma Parse
छाद्यमानम् छादय् pos=va,g=m,c=2,n=s,f=part
शर शर pos=n,comp=y
व्रातैः व्रात pos=n,g=m,c=3,n=p
शतानीकम् शतानीक pos=n,g=m,c=2,n=s
यशस्विनम् यशस्विन् pos=a,g=m,c=2,n=s
अभ्यधावन्त अभिधाव् pos=v,p=3,n=p,l=lan
संरब्धाः संरभ् pos=va,g=m,c=1,n=p,f=part
केकयाः केकय pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
सोदराः सोदर pos=n,g=m,c=1,n=p