Original

श्रुतकीर्तिस्तथा वीरो जयत्सेनं सुतं तव ।अभ्ययात्समरे राजन्हन्तुकामो यशस्विनम् ॥ ३८ ॥

Segmented

श्रुतकीर्तिः तथा वीरो जयत्सेनम् सुतम् तव अभ्ययात् समरे राजन् हन्तु-कामः यशस्विनम्

Analysis

Word Lemma Parse
श्रुतकीर्तिः श्रुतकीर्ति pos=n,g=m,c=1,n=s
तथा तथा pos=i
वीरो वीर pos=n,g=m,c=1,n=s
जयत्सेनम् जयत्सेन pos=n,g=m,c=2,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
हन्तु हन्तु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
यशस्विनम् यशस्विन् pos=a,g=m,c=2,n=s