Original

अष्टावेते महेष्वासाः सुकुमारा यशस्विनः ।अभिमन्युरथं राजन्समन्तात्पर्यवारयन् ॥ २३ ॥

Segmented

अष्टौ एते महा-इष्वासाः सु कुमाराः यशस्विनः अभिमन्यु-रथम् राजन् समन्तात् पर्यवारयन्

Analysis

Word Lemma Parse
अष्टौ अष्टन् pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
सु सु pos=i
कुमाराः कुमार pos=a,g=m,c=1,n=p
यशस्विनः यशस्विन् pos=a,g=m,c=1,n=p
अभिमन्यु अभिमन्यु pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
समन्तात् समन्तात् pos=i
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan