Original

ततो रथं समारोप्य केकयस्य वृकोदरम् ।अभ्यधावत्सुसंक्रुद्धो द्रोणमिष्वस्त्रपारगम् ॥ ६१ ॥

Segmented

ततो रथम् समारोप्य केकयस्य वृकोदरम् अभ्यधावत् सु संक्रुद्धः द्रोणम् इषु-अस्त्र-पारगम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
रथम् रथ pos=n,g=m,c=2,n=s
समारोप्य समारोपय् pos=vi
केकयस्य केकय pos=n,g=m,c=6,n=s
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s
अभ्यधावत् अभिधाव् pos=v,p=3,n=s,l=lan
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
इषु इषु pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
पारगम् पारग pos=a,g=m,c=2,n=s