Original

भ्रातॄनथोपेत्य तवापि पुत्रस्तस्मिन्विमर्दे महति प्रवृत्ते ।अयं दुरात्मा द्रुपदस्य पुत्रः समागतो भीमसेनेन सार्धम् ।तं यात सर्वे सहिता निहन्तुं मा वो रिपुः प्रार्थयतामनीकम् ॥ ३९ ॥

Segmented

भ्रातॄन् अथ उपेत्य ते अपि पुत्रस् तस्मिन् विमर्दे महति प्रवृत्ते अयम् दुरात्मा द्रुपदस्य पुत्रः समागतो भीमसेनेन सार्धम् तम् यात सर्वे सहिता निहन्तुम् मा वो रिपुः प्रार्थयताम् अनीकम्

Analysis

Word Lemma Parse
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
अथ अथ pos=i
उपेत्य उपे pos=vi
ते त्वद् pos=n,g=,c=6,n=s
अपि अपि pos=i
पुत्रस् पुत्र pos=n,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
विमर्दे विमर्द pos=n,g=m,c=7,n=s
महति महत् pos=a,g=m,c=7,n=s
प्रवृत्ते प्रवृत् pos=va,g=m,c=7,n=s,f=part
अयम् इदम् pos=n,g=m,c=1,n=s
दुरात्मा दुरात्मन् pos=a,g=m,c=1,n=s
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
समागतो समागम् pos=va,g=m,c=1,n=s,f=part
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
सार्धम् सार्धम् pos=i
तम् तद् pos=n,g=m,c=2,n=s
यात या pos=v,p=2,n=p,l=lot
सर्वे सर्व pos=n,g=m,c=1,n=p
सहिता सहित pos=a,g=m,c=1,n=p
निहन्तुम् निहन् pos=vi
मा मा pos=i
वो त्वद् pos=n,g=,c=6,n=p
रिपुः रिपु pos=n,g=m,c=1,n=s
प्रार्थयताम् प्रार्थय् pos=v,p=3,n=s,l=lot
अनीकम् अनीक pos=n,g=n,c=2,n=s