Original

शिरोऽभूद्द्रुपदस्तस्य पाण्डवश्च धनंजयः ।चक्षुषी सहदेवश्च नकुलश्च महारथः ।तुण्डमासीन्महाराज भीमसेनो महाबलः ॥ ६ ॥

Segmented

शिरो ऽभूद् द्रुपदः तस्य पाण्डवः च धनंजयः चक्षुषी सहदेवः च नकुलः च महा-रथः तुण्डम् आसीत् महा-राज भीमसेनो महा-बलः

Analysis

Word Lemma Parse
शिरो शिरस् pos=n,g=n,c=1,n=s
ऽभूद् भू pos=v,p=3,n=s,l=lun
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s
चक्षुषी चक्षुस् pos=n,g=n,c=1,n=d
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
नकुलः नकुल pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
तुण्डम् तुण्ड pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s