Original

ततः समाकुले तस्मिन्वर्तमाने महाभये ।अभ्यद्रवञ्जिघांसन्तः परस्परवधैषिणः ॥ ३७ ॥

Segmented

ततः समाकुले तस्मिन् वर्तमाने महा-भये अभ्यद्रवञ् जिघांसन्तः परस्पर-वध-एषिणः

Analysis

Word Lemma Parse
ततः ततस् pos=i
समाकुले समाकुल pos=a,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
महा महत् pos=a,comp=y
भये भय pos=n,g=n,c=7,n=s
अभ्यद्रवञ् अभिद्रु pos=v,p=3,n=p,l=lan
जिघांसन्तः जिघांस् pos=va,g=m,c=1,n=p,f=part
परस्पर परस्पर pos=n,comp=y
वध वध pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p