Original

द्रौणिर्गाण्डीवधन्वानं भीमधन्वा महारथः ।अविध्यदिषुभिः षड्भिर्दृढहस्तः स्तनान्तरे ॥ ३ ॥

Segmented

द्रौणिः गाण्डीवधन्वानम् भीम-धन्वा महा-रथः अविध्यद् इषुभिः षड्भिः दृढ-हस्तः स्तनान्तरे

Analysis

Word Lemma Parse
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
गाण्डीवधन्वानम् गाण्डीवधन्वन् pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
धन्वा धन्वन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
अविध्यद् व्यध् pos=v,p=3,n=s,l=lan
इषुभिः इषु pos=n,g=m,c=3,n=p
षड्भिः षष् pos=n,g=m,c=3,n=p
दृढ दृढ pos=a,comp=y
हस्तः हस्त pos=n,g=m,c=1,n=s
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s