Original

संजय उवाच ।विराटोऽथ त्रिभिर्बाणैर्भीष्ममार्छन्महारथम् ।विव्याध तुरगांश्चास्य त्रिभिर्बाणैर्महारथः ॥ १ ॥

Segmented

संजय उवाच विराटो ऽथ त्रिभिः बाणैः भीष्मम् आर्छत् महा-रथम् विव्याध तुरगान् च अस्य त्रिभिः बाणैः महा-रथः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विराटो विराट pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
आर्छत् ऋछ् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
तुरगान् तुरग pos=n,g=m,c=2,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s