Original

ततो भीष्मविनिर्मुक्ता रुक्मपुङ्खाः शिलाशिताः ।अभ्यघ्नन्समरे भीमं तैलधौताः सुतेजनाः ॥ २१ ॥

Segmented

ततो भीष्म-विनिर्मुक्ताः रुक्म-पुङ्खाः शिला-शिताः अभ्यघ्नन् समरे भीमम् तैल-धौताः सुतेजनाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीष्म भीष्म pos=n,comp=y
विनिर्मुक्ताः विनिर्मुच् pos=va,g=m,c=1,n=p,f=part
रुक्म रुक्म pos=n,comp=y
पुङ्खाः पुङ्ख pos=n,g=m,c=1,n=p
शिला शिला pos=n,comp=y
शिताः शा pos=va,g=m,c=1,n=p,f=part
अभ्यघ्नन् अभिहन् pos=v,p=3,n=p,l=lan
समरे समर pos=n,g=n,c=7,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
तैल तैल pos=n,comp=y
धौताः धाव् pos=va,g=m,c=1,n=p,f=part
सुतेजनाः सुतेजन pos=n,g=m,c=1,n=p