Original

तथैव पाण्डवाः सर्वे सात्यकिं रभसं रणे ।परिवार्य स्थिताः संख्ये समन्तात्सुमहौजसः ॥ ४ ॥

Segmented

तथा एव पाण्डवाः सर्वे सात्यकिम् रभसम् रणे परिवार्य स्थिताः संख्ये समन्तात् सु महा-ओजसः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
रभसम् रभस pos=a,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
परिवार्य परिवारय् pos=vi
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
समन्तात् समन्तात् pos=i
सु सु pos=i
महा महत् pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p