Original

पुत्रास्तु तव तं दृष्ट्वा भीमसेनपराक्रमम् ।शेषा येऽन्येऽभवंस्तत्र ते भीमस्य भयार्दिताः ।विप्रद्रुता दिशो राजन्वध्यमाना महात्मना ॥ ३३ ॥

Segmented

पुत्राः तु तव तम् दृष्ट्वा भीमसेन-पराक्रमम् शेषा ये ऽन्ये अभवन् तत्र ते भीमस्य भय-अर्दिताः विप्रद्रुता दिशो राजन् वध्यमाना महात्मना

Analysis

Word Lemma Parse
पुत्राः पुत्र pos=n,g=m,c=1,n=p
तु तु pos=i
तव त्वद् pos=n,g=,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
भीमसेन भीमसेन pos=n,comp=y
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
शेषा शेष pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
ऽन्ये अन्य pos=n,g=m,c=1,n=p
अभवन् भू pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
भीमस्य भीम pos=n,g=m,c=6,n=s
भय भय pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
विप्रद्रुता विप्रद्रु pos=va,g=m,c=1,n=p,f=part
दिशो दिश् pos=n,g=f,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
वध्यमाना वध् pos=va,g=m,c=1,n=p,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s