Original

एवमुक्त्वा ततः पार्थः पुत्रं दुर्योधनं तव ।विव्याध दशभिस्तीक्ष्णैः शरैः कनकभूषणैः ।नन्दकं च त्रिभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ॥ ११ ॥

Segmented

एवम् उक्त्वा ततः पार्थः पुत्रम् दुर्योधनम् तव विव्याध दशभिः तीक्ष्णैः शरैः कनक-भूषणैः नन्दकम् च त्रिभिः बाणैः प्रत्यविध्यत् स्तनान्तरे

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततः ततस् pos=i
पार्थः पार्थ pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
दशभिः दशन् pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
कनक कनक pos=n,comp=y
भूषणैः भूषण pos=n,g=m,c=3,n=p
नन्दकम् नन्दक pos=n,g=m,c=2,n=s
pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
प्रत्यविध्यत् प्रतिव्यध् pos=v,p=3,n=s,l=lan
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s