Original

तस्मिन्क्षणे सात्यकिः सत्यसंधः शिनिप्रवीरोऽभ्यपतत्पितामहम् ।निघ्नन्नमित्रान्धनुषा दृढेन स कम्पयंस्तव पुत्रस्य सेनाम् ॥ २४ ॥

Segmented

तस्मिन् क्षणे सात्यकिः सत्य-संधः शिनिप्रवीरो ऽभ्यपतत् पितामहम् निघ्नन्न् अमित्रान् धनुषा दृढेन स कम्पयन् ते पुत्रस्य सेनाम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
क्षणे क्षण pos=n,g=m,c=7,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
संधः संधा pos=n,g=m,c=1,n=s
शिनिप्रवीरो शिनिप्रवीर pos=n,g=m,c=1,n=s
ऽभ्यपतत् अभिपत् pos=v,p=3,n=s,l=lan
पितामहम् पितामह pos=n,g=m,c=2,n=s
निघ्नन्न् निहन् pos=va,g=m,c=1,n=s,f=part
अमित्रान् अमित्र pos=n,g=m,c=2,n=p
धनुषा धनुस् pos=n,g=n,c=3,n=s
दृढेन दृढ pos=a,g=n,c=3,n=s
तद् pos=n,g=m,c=1,n=s
कम्पयन् कम्पय् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s