Original

यतो यतः प्रेक्षते स्म गदामुद्यम्य पाण्डवः ।तेन तेन स्म दीर्यन्ते सर्वसैन्यानि भारत ॥ १९ ॥

Segmented

यतो यतः प्रेक्षते स्म गदाम् उद्यम्य पाण्डवः तेन तेन स्म दीर्यन्ते सर्व-सैन्यानि भारत

Analysis

Word Lemma Parse
यतो यतस् pos=i
यतः यतस् pos=i
प्रेक्षते प्रेक्ष् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
गदाम् गदा pos=n,g=f,c=2,n=s
उद्यम्य उद्यम् pos=vi
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
तेन तेन pos=i
तेन तेन pos=i
स्म स्म pos=i
दीर्यन्ते दृ pos=v,p=3,n=p,l=lat
सर्व सर्व pos=n,comp=y
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
भारत भारत pos=n,g=m,c=8,n=s