Original

आविध्यतो गदां तस्य कौन्तेयस्य महात्मनः ।बभौ रूपं महाघोरं कालस्येव युगक्षये ॥ १७ ॥

Segmented

आविध्यतो गदाम् तस्य कौन्तेयस्य महात्मनः बभौ रूपम् महा-घोरम् कालस्य इव युग-क्षये

Analysis

Word Lemma Parse
आविध्यतो आव्यध् pos=va,g=m,c=6,n=s,f=part
गदाम् गदा pos=n,g=f,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कौन्तेयस्य कौन्तेय pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
बभौ भा pos=v,p=3,n=s,l=lit
रूपम् रूप pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
घोरम् घोर pos=a,g=n,c=1,n=s
कालस्य काल pos=n,g=m,c=6,n=s
इव इव pos=i
युग युग pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s