Original

तेषां महास्त्राणि महारथानामसक्तकर्मा विनिहत्य कार्ष्णिः ।बभौ महामन्त्रहुतार्चिमाली सदोगतः सन्भगवानिवाग्निः ॥ २४ ॥

Segmented

तेषाम् महा-अस्त्राणि महा-रथानाम् असक्त-कर्मा विनिहत्य कार्ष्णिः बभौ महा-मन्त्र-हुत-अर्चि-माली सदः-गतः सन् भगवान् इव अग्निः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
महा महत् pos=a,comp=y
रथानाम् रथ pos=n,g=m,c=6,n=p
असक्त असक्त pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
विनिहत्य विनिहन् pos=vi
कार्ष्णिः कार्ष्णि pos=n,g=m,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
मन्त्र मन्त्र pos=n,comp=y
हुत हु pos=va,comp=y,f=part
अर्चि अर्चि pos=n,comp=y
माली मालिन् pos=a,g=m,c=1,n=s
सदः सदस् pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
सन् अस् pos=va,g=m,c=1,n=s,f=part
भगवान् भगवत् pos=a,g=m,c=1,n=s
इव इव pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s