Original

नासौ रथः सात्वत कौरवाणां क्रुद्धस्य मुच्येत रणेऽद्य कश्चित् ।तस्मादहं गृह्य रथाङ्गमुग्रं प्राणं हरिष्यामि महाव्रतस्य ॥ ८३ ॥

Segmented

न असौ रथः सात्वत कौरवाणाम् क्रुद्धस्य मुच्येत रणे ऽद्य कश्चित् तस्माद् अहम् गृह्य रथाङ्गम् उग्रम् प्राणम् हरिष्यामि महा-व्रतस्य

Analysis

Word Lemma Parse
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
रथः रथ pos=n,g=m,c=1,n=s
सात्वत सात्वत pos=n,g=m,c=8,n=s
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
क्रुद्धस्य क्रुध् pos=va,g=m,c=6,n=s,f=part
मुच्येत मुच् pos=v,p=3,n=s,l=vidhilin
रणे रण pos=n,g=m,c=7,n=s
ऽद्य अद्य pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
तस्माद् तस्मात् pos=i
अहम् मद् pos=n,g=,c=1,n=s
गृह्य ग्रह् pos=vi
रथाङ्गम् रथाङ्ग pos=n,g=n,c=2,n=s
उग्रम् उग्र pos=a,g=n,c=2,n=s
प्राणम् प्राण pos=n,g=m,c=2,n=s
हरिष्यामि हृ pos=v,p=1,n=s,l=lrt
महा महत् pos=a,comp=y
व्रतस्य व्रत pos=n,g=m,c=6,n=s