Original

काञ्चनेषु तनुत्रेषु किरीटेषु ध्वजेषु च ।शिलानामिव शैलेषु पतितानामभूत्स्वनः ॥ ८ ॥

Segmented

काञ्चनेषु तनुत्रेषु किरीटेषु ध्वजेषु च शिलानाम् इव शैलेषु पतितानाम् अभूत् स्वनः

Analysis

Word Lemma Parse
काञ्चनेषु काञ्चन pos=a,g=n,c=7,n=p
तनुत्रेषु तनुत्र pos=n,g=n,c=7,n=p
किरीटेषु किरीट pos=n,g=n,c=7,n=p
ध्वजेषु ध्वज pos=n,g=m,c=7,n=p
pos=i
शिलानाम् शिला pos=n,g=f,c=6,n=p
इव इव pos=i
शैलेषु शैल pos=n,g=m,c=7,n=p
पतितानाम् पत् pos=va,g=f,c=6,n=p,f=part
अभूत् भू pos=v,p=3,n=s,l=lun
स्वनः स्वन pos=n,g=m,c=1,n=s