Original

ततस्तु दृष्ट्वार्जुनवासुदेवौ पदातिनागाश्वरथैः समन्तात् ।अभिद्रुतौ शस्त्रभृतां वरिष्ठौ शिनिप्रवीरोऽभिससार तूर्णम् ॥ ७६ ॥

Segmented

ततस् तु दृष्ट्वा अर्जुन-वासुदेवौ पदाति-नाग-अश्व-रथैः समन्तात् अभिद्रुतौ शस्त्रभृताम् वरिष्ठौ शिनिप्रवीरो ऽभिससार तूर्णम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
दृष्ट्वा दृश् pos=vi
अर्जुन अर्जुन pos=n,comp=y
वासुदेवौ वासुदेव pos=n,g=m,c=2,n=d
पदाति पदाति pos=n,comp=y
नाग नाग pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
समन्तात् समन्तात् pos=i
अभिद्रुतौ अभिद्रु pos=va,g=m,c=2,n=d,f=part
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरिष्ठौ वरिष्ठ pos=a,g=m,c=2,n=d
शिनिप्रवीरो शिनिप्रवीर pos=n,g=m,c=1,n=s
ऽभिससार अभिसृ pos=v,p=3,n=s,l=lit
तूर्णम् तूर्णम् pos=i