Original

संजय उवाच ।गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि भारत ।जयं प्राप्तेषु हृष्टेषु पाण्डवेषु महात्मसु ॥ ३ ॥

Segmented

संजय उवाच गत-पूर्वाह्ण-भूयिष्ठे तस्मिन्न् अहनि भारत जयम् प्राप्तेषु हृष्टेषु पाण्डवेषु महात्मसु

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गत गम् pos=va,comp=y,f=part
पूर्वाह्ण पूर्वाह्ण pos=n,comp=y
भूयिष्ठे भूयिष्ठ pos=a,g=n,c=7,n=s
तस्मिन्न् तद् pos=n,g=n,c=7,n=s
अहनि अहर् pos=n,g=n,c=7,n=s
भारत भारत pos=n,g=m,c=8,n=s
जयम् जय pos=n,g=m,c=2,n=s
प्राप्तेषु प्राप् pos=va,g=m,c=7,n=p,f=part
हृष्टेषु हृष् pos=va,g=m,c=7,n=p,f=part
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
महात्मसु महात्मन् pos=a,g=m,c=7,n=p