Original

श्रुतायुरम्बष्ठपतिश्च राजा तथैव दुर्मर्षणचित्रसेनौ ।द्रोणः कृपः सैन्धवबाह्लिकौ च भूरिश्रवाः शल्यशलौ च राजन् ।स्वबाहुवीर्येण जिताः सभीष्माः किरीटिना लोकमहारथेन ॥ १३१ ॥

Segmented

श्रुतायुः अम्बष्ठ-पतिः च राजा तथा एव दुर्मर्षण-चित्रसेनौ द्रोणः कृपः सैन्धव-बाह्लिकौ च भूरिश्रवाः शल्य-शलौ च राजन् स्व-बाहु-वीर्येण जिताः स भीष्माः किरीटिना लोक-महा-रथेन

Analysis

Word Lemma Parse
श्रुतायुः श्रुतायुस् pos=n,g=m,c=1,n=s
अम्बष्ठ अम्बष्ठ pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
दुर्मर्षण दुर्मर्षण pos=n,comp=y
चित्रसेनौ चित्रसेन pos=n,g=m,c=1,n=d
द्रोणः द्रोण pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
सैन्धव सैन्धव pos=n,comp=y
बाह्लिकौ बाह्लिक pos=n,g=m,c=1,n=d
pos=i
भूरिश्रवाः भूरिश्रवस् pos=n,g=m,c=1,n=s
शल्य शल्य pos=n,comp=y
शलौ शल pos=n,g=m,c=1,n=d
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
स्व स्व pos=a,comp=y
बाहु बाहु pos=n,comp=y
वीर्येण वीर्य pos=n,g=n,c=3,n=s
जिताः जि pos=va,g=m,c=1,n=p,f=part
pos=i
भीष्माः भीष्म pos=n,g=m,c=1,n=p
किरीटिना किरीटिन् pos=n,g=m,c=3,n=s
लोक लोक pos=n,comp=y
महा महत् pos=a,comp=y
रथेन रथ pos=n,g=m,c=3,n=s