Original

परीतसत्त्वाः सहसा निपेतुः किरीटिना भिन्नतनुत्रकायाः ।दृढाहताः पत्रिभिरुग्रवेगैः पार्थेन भल्लैर्निशितैः शिताग्रैः ॥ ११८ ॥

Segmented

परीत-सत्त्वाः सहसा निपेतुः किरीटिना भिन्न-तनुत्र-कायाः दृढ-आहताः पत्रिभिः उग्र-वेगैः पार्थेन भल्लैः निशितैः शित-अग्रैः

Analysis

Word Lemma Parse
परीत परी pos=va,comp=y,f=part
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p
सहसा सहसा pos=i
निपेतुः निपत् pos=v,p=3,n=p,l=lit
किरीटिना किरीटिन् pos=n,g=m,c=3,n=s
भिन्न भिद् pos=va,comp=y,f=part
तनुत्र तनुत्र pos=n,comp=y
कायाः काय pos=n,g=m,c=1,n=p
दृढ दृढ pos=a,comp=y
आहताः आहन् pos=va,g=m,c=1,n=p,f=part
पत्रिभिः पत्त्रिन् pos=n,g=m,c=3,n=p
उग्र उग्र pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
पार्थेन पार्थ pos=n,g=m,c=3,n=s
भल्लैः भल्ल pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शित शा pos=va,comp=y,f=part
अग्रैः अग्र pos=n,g=m,c=3,n=p