Original

ततः शुभामापततीं स शक्तिं विद्युत्प्रभां शांतनवेन मुक्ताम् ।गदां च मद्राधिपबाहुमुक्तां द्वाभ्यां शराभ्यां निचकर्त वीरः ॥ १०९ ॥

Segmented

ततः शुभाम् आपततीम् स शक्तिम् विद्युत्-प्रभाम् शांतनवेन मुक्ताम् गदाम् च मद्र-अधिप-बाहु-मुक्ताम् द्वाभ्याम् शराभ्याम् निचकर्त वीरः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शुभाम् शुभ pos=a,g=f,c=2,n=s
आपततीम् आपत् pos=va,g=f,c=2,n=s,f=part
तद् pos=n,g=m,c=1,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
विद्युत् विद्युत् pos=n,comp=y
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
शांतनवेन शांतनव pos=n,g=m,c=3,n=s
मुक्ताम् मुच् pos=va,g=f,c=2,n=s,f=part
गदाम् गदा pos=n,g=f,c=2,n=s
pos=i
मद्र मद्र pos=n,comp=y
अधिप अधिप pos=n,comp=y
बाहु बाहु pos=n,comp=y
मुक्ताम् मुच् pos=va,g=f,c=2,n=s,f=part
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
शराभ्याम् शर pos=n,g=m,c=3,n=d
निचकर्त निकृत् pos=v,p=3,n=s,l=lit
वीरः वीर pos=n,g=m,c=1,n=s