Original

व्याविद्धनिष्काङ्गदकुण्डलं तं रजोविकीर्णाञ्चितपक्ष्मनेत्रम् ।विशुद्धदंष्ट्रं प्रगृहीतशङ्खं विचुक्रुशुः प्रेक्ष्य कुरुप्रवीराः ॥ १०३ ॥

Segmented

व्याविद्ध-निष्क-अङ्गद-कुण्डलम् तम् रजः-विकीर्ण-अञ्चित-पक्ष्म-नेत्रम् विशुद्ध-दंष्ट्रम् प्रगृहीत-शङ्खम् विचुक्रुशुः प्रेक्ष्य कुरु-प्रवीराः

Analysis

Word Lemma Parse
व्याविद्ध व्याव्यध् pos=va,comp=y,f=part
निष्क निष्क pos=n,comp=y
अङ्गद अङ्गद pos=n,comp=y
कुण्डलम् कुण्डल pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
रजः रजस् pos=n,comp=y
विकीर्ण विकृ pos=va,comp=y,f=part
अञ्चित अञ्चय् pos=va,comp=y,f=part
पक्ष्म पक्ष्मन् pos=n,comp=y
नेत्रम् नेत्र pos=n,g=m,c=2,n=s
विशुद्ध विशुध् pos=va,comp=y,f=part
दंष्ट्रम् दंष्ट्र pos=n,g=m,c=2,n=s
प्रगृहीत प्रग्रह् pos=va,comp=y,f=part
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
विचुक्रुशुः विक्रुश् pos=v,p=3,n=p,l=lit
प्रेक्ष्य प्रेक्ष् pos=vi
कुरु कुरु pos=n,comp=y
प्रवीराः प्रवीर pos=n,g=m,c=1,n=p