Original

शस्त्राणामथ तां वृष्टिं शलभानामिवायतिम् ।रुरोध सर्वतः पार्थः शरैः कनकभूषणैः ॥ ४ ॥

Segmented

शस्त्राणाम् अथ ताम् वृष्टिम् शलभानाम् इव आयतिम् रुरोध सर्वतः पार्थः शरैः कनक-भूषणैः

Analysis

Word Lemma Parse
शस्त्राणाम् शस्त्र pos=n,g=n,c=6,n=p
अथ अथ pos=i
ताम् तद् pos=n,g=f,c=2,n=s
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
शलभानाम् शलभ pos=n,g=m,c=6,n=p
इव इव pos=i
आयतिम् आयति pos=n,g=f,c=2,n=s
रुरोध रुध् pos=v,p=3,n=s,l=lit
सर्वतः सर्वतस् pos=i
पार्थः पार्थ pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
कनक कनक pos=n,comp=y
भूषणैः भूषण pos=n,g=m,c=3,n=p