Original

अर्जुनस्तु ततः क्रुद्धस्तव सैन्यं विशां पते ।ववर्ष शरवर्षेण धाराभिरिव तोयदः ॥ २४ ॥

Segmented

अर्जुनः तु ततः क्रुद्धः ते सैन्यम् विशाम् पते ववर्ष शर-वर्षेण धाराभिः इव तोयदः

Analysis

Word Lemma Parse
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तु तु pos=i
ततः ततस् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
ववर्ष वृष् pos=v,p=3,n=s,l=lit
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
धाराभिः धारा pos=n,g=f,c=3,n=p
इव इव pos=i
तोयदः तोयद pos=n,g=m,c=1,n=s