Original

तत्रासीत्सुमहद्युद्धं तुमुलं लोमहर्षणम् ।यथा देवासुरं युद्धं पूर्वमासीत्सुदारुणम् ॥ १२ ॥

Segmented

तत्र आसीत् सु महत् युद्धम् तुमुलम् लोम-हर्षणम् यथा देवासुरम् युद्धम् पूर्वम् आसीत् सु दारुणम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s
यथा यथा pos=i
देवासुरम् देवासुर pos=n,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
पूर्वम् पूर्वम् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
सु सु pos=i
दारुणम् दारुण pos=a,g=n,c=1,n=s