Original

द्रोणभीष्मौ रणे यत्तौ धर्मराजस्य वाहिनीम् ।नाशयेतां शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः ॥ १० ॥

Segmented

द्रोण-भीष्मौ रणे यत्तौ धर्मराजस्य वाहिनीम् नाशयेताम् शरैः तीक्ष्णैः कङ्क-पत्त्र-परिच्छदैः

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,comp=y
भीष्मौ भीष्म pos=n,g=m,c=1,n=d
रणे रण pos=n,g=m,c=7,n=s
यत्तौ यत् pos=va,g=m,c=1,n=d,f=part
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
नाशयेताम् नाशय् pos=v,p=3,n=d,l=vidhilin
शरैः शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
कङ्क कङ्क pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
परिच्छदैः परिच्छद pos=n,g=m,c=3,n=p