Original

संजय उवाच ।ततस्ते पार्थिवाः क्रुद्धाः फल्गुनं वीक्ष्य संयुगे ।रथैरनेकसाहस्रैः समन्तात्पर्यवारयन् ॥ १ ॥

Segmented

संजय उवाच ततस् ते पार्थिवाः क्रुद्धाः फल्गुनम् वीक्ष्य संयुगे रथैः अनेक-साहस्रैः समन्तात् पर्यवारयन्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
क्रुद्धाः क्रुध् pos=va,g=m,c=1,n=p,f=part
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s
वीक्ष्य वीक्ष् pos=vi
संयुगे संयुग pos=n,g=n,c=7,n=s
रथैः रथ pos=n,g=m,c=3,n=p
अनेक अनेक pos=a,comp=y
साहस्रैः साहस्र pos=a,g=m,c=3,n=p
समन्तात् समन्तात् pos=i
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan