Original

तथा ते समरेऽन्योन्यं निघ्नन्तः क्षत्रियर्षभाः ।रक्तोक्षिता घोररूपा विरेजुर्दानवा इव ॥ २९ ॥

Segmented

तथा ते समरे ऽन्योन्यम् निघ्नन्तः क्षत्रिय-ऋषभाः रक्त-उक्षिताः घोर-रूपाः विरेजुः दानवा इव

Analysis

Word Lemma Parse
तथा तथा pos=i
ते तद् pos=n,g=m,c=1,n=p
समरे समर pos=n,g=n,c=7,n=s
ऽन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
निघ्नन्तः निहन् pos=va,g=m,c=1,n=p,f=part
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
रक्त रक्त pos=n,comp=y
उक्षिताः उक्ष् pos=va,g=m,c=1,n=p,f=part
घोर घोर pos=a,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
विरेजुः विराज् pos=v,p=3,n=p,l=lit
दानवा दानव pos=n,g=m,c=1,n=p
इव इव pos=i