Original

ततः शांतनवो भीष्मः श्रुत्वा तं निनदं रणे ।अभ्ययात्त्वरितो भीमं व्यूढानीकः समन्ततः ॥ ९७ ॥

Segmented

ततः शांतनवो भीष्मः श्रुत्वा तम् निनदम् रणे अभ्ययात् त्वरितो भीमम् व्यूढ-अनीकः समन्ततः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शांतनवो शांतनव pos=n,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
तम् तद् pos=n,g=m,c=2,n=s
निनदम् निनद pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
भीमम् भीम pos=n,g=m,c=2,n=s
व्यूढ व्यूह् pos=va,comp=y,f=part
अनीकः अनीक pos=n,g=m,c=1,n=s
समन्ततः समन्ततः pos=i