Original

हतारोहाश्च मातङ्गाः पाण्डवेन महात्मना ।विप्रजग्मुरनीकेषु मेघा वातहता इव ।मृद्नन्तः स्वान्यनीकानि विनदन्तः शरातुराः ॥ ७६ ॥

Segmented

हत-आरोहाः च मातङ्गाः पाण्डवेन महात्मना विप्रजग्मुः अनीकेषु मेघा वात-हताः इव मृद्नन्तः स्वानि अनीकानि विनदन्तः शर-आतुराः

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
आरोहाः आरोह pos=n,g=m,c=1,n=p
pos=i
मातङ्गाः मातंग pos=n,g=m,c=1,n=p
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
विप्रजग्मुः विप्रगम् pos=v,p=3,n=p,l=lit
अनीकेषु अनीक pos=n,g=n,c=7,n=p
मेघा मेघ pos=n,g=m,c=1,n=p
वात वात pos=n,comp=y
हताः हन् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
मृद्नन्तः मृद् pos=va,g=m,c=1,n=p,f=part
स्वानि स्व pos=a,g=n,c=2,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
विनदन्तः विनद् pos=va,g=m,c=1,n=p,f=part
शर शर pos=n,comp=y
आतुराः आतुर pos=a,g=m,c=1,n=p