Original

हतमात्मसुतं दृष्ट्वा कलिङ्गानां जनाधिपः ।रथैरनेकसाहस्रैर्भीमस्यावारयद्दिशः ॥ २३ ॥

Segmented

हतम् आत्म-सुतम् दृष्ट्वा कलिङ्गानाम् जनाधिपः रथैः अनेक-साहस्रैः भीमस्य अवारयत् दिशः

Analysis

Word Lemma Parse
हतम् हन् pos=va,g=m,c=2,n=s,f=part
आत्म आत्मन् pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
कलिङ्गानाम् कलिङ्ग pos=n,g=m,c=6,n=p
जनाधिपः जनाधिप pos=n,g=m,c=1,n=s
रथैः रथ pos=n,g=m,c=3,n=p
अनेक अनेक pos=a,comp=y
साहस्रैः साहस्र pos=a,g=m,c=3,n=p
भीमस्य भीम pos=n,g=m,c=6,n=s
अवारयत् वारय् pos=v,p=3,n=s,l=lan
दिशः दिश् pos=n,g=f,c=2,n=p