Original

ततो द्रोणं महेष्वासं गाङ्गेयस्य प्रिये रतम् ।अभ्यवर्षत पाञ्चाल्यः संयुक्तः सह सोमकैः ॥ ३० ॥

Segmented

ततो द्रोणम् महा-इष्वासम् गाङ्गेयस्य प्रिये रतम् अभ्यवर्षत पाञ्चाल्यः संयुक्तः सह सोमकैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
गाङ्गेयस्य गाङ्गेय pos=n,g=m,c=6,n=s
प्रिये प्रिय pos=n,g=n,c=7,n=s
रतम् रम् pos=va,g=m,c=2,n=s,f=part
अभ्यवर्षत अभिवृष् pos=v,p=3,n=s,l=lan
पाञ्चाल्यः पाञ्चाल्य pos=a,g=m,c=1,n=s
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
सह सह pos=i
सोमकैः सोमक pos=n,g=m,c=3,n=p