Original

एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः ।सूर्योदयनमिच्छन्तः स्थिता युद्धाय दंशिताः ॥ ५५ ॥

Segmented

एवम् एतम् महा-व्यूहम् व्यूह्य भारत पाण्डवाः सूर्य-उदयनम् इच्छन्तः स्थिता युद्धाय दंशिताः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एतम् एतद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
व्यूह्य व्यूह् pos=vi
भारत भारत pos=n,g=m,c=8,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सूर्य सूर्य pos=n,comp=y
उदयनम् उदयन pos=n,g=n,c=2,n=s
इच्छन्तः इष् pos=va,g=m,c=1,n=p,f=part
स्थिता स्था pos=va,g=m,c=1,n=p,f=part
युद्धाय युद्ध pos=n,g=n,c=4,n=s
दंशिताः दंशय् pos=va,g=m,c=1,n=p,f=part