Original

उत्तरं निहतं दृष्ट्वा वैराटिर्भ्रातरं शुभम् ।कृतवर्मणा च सहितं दृष्ट्वा शल्यमवस्थितम् ।शङ्खः क्रोधात्प्रजज्वाल हविषा हव्यवाडिव ॥ ४३ ॥

Segmented

उत्तरम् निहतम् दृष्ट्वा वैराटिः भ्रातरम् शुभम् कृतवर्मणा च सहितम् दृष्ट्वा शल्यम् अवस्थितम् शङ्खः क्रोधात् प्रजज्वाल हविषा हव्यवाड् इव

Analysis

Word Lemma Parse
उत्तरम् उत्तर pos=n,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
वैराटिः वैराटि pos=n,g=m,c=1,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
शुभम् शुभ pos=a,g=m,c=2,n=s
कृतवर्मणा कृतवर्मन् pos=n,g=m,c=3,n=s
pos=i
सहितम् सहित pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
शल्यम् शल्य pos=n,g=m,c=2,n=s
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part
शङ्खः शङ्ख pos=n,g=m,c=1,n=s
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
प्रजज्वाल प्रज्वल् pos=v,p=3,n=s,l=lit
हविषा हविस् pos=n,g=n,c=3,n=s
हव्यवाड् हव्यवह् pos=n,g=,c=1,n=s
इव इव pos=i