Original

निपेतुर्विमलाः शक्त्यो वीरबाहुभिरर्पिताः ।महोल्काप्रतिमा घोरास्तत्र तत्र विशां पते ॥ ३१ ॥

Segmented

निपेतुः विमलाः शक्त्यो वीर-बाहुभिः अर्पिताः महा-उल्का-प्रतिमाः घोराः तत्र तत्र विशाम् पते

Analysis

Word Lemma Parse
निपेतुः निपत् pos=v,p=3,n=p,l=lit
विमलाः विमल pos=a,g=f,c=1,n=p
शक्त्यो शक्ति pos=n,g=f,c=1,n=p
वीर वीर pos=n,comp=y
बाहुभिः बाहु pos=n,g=m,c=3,n=p
अर्पिताः अर्पय् pos=va,g=f,c=1,n=p,f=part
महा महत् pos=a,comp=y
उल्का उल्का pos=n,comp=y
प्रतिमाः प्रतिमा pos=n,g=f,c=1,n=p
घोराः घोर pos=a,g=f,c=1,n=p
तत्र तत्र pos=i
तत्र तत्र pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s