Original

चेकितानोऽपि संरब्धः सुशर्माणं महाहवे ।प्राच्छादयत्तमिषुभिर्महामेघ इवाचलम् ॥ ५९ ॥

Segmented

चेकितानो ऽपि संरब्धः सुशर्माणम् महा-आहवे प्राच्छादयत् तम् इषुभिः महा-मेघः इव अचलम्

Analysis

Word Lemma Parse
चेकितानो चेकितान pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
संरब्धः संरभ् pos=va,g=m,c=1,n=s,f=part
सुशर्माणम् सुशर्मन् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
प्राच्छादयत् प्रच्छादय् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
इषुभिः इषु pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
मेघः मेघ pos=n,g=m,c=1,n=s
इव इव pos=i
अचलम् अचल pos=n,g=m,c=2,n=s