Original

गम्भीरघोषाश्च महास्वनाश्च शङ्खा मृदङ्गाश्च नदन्ति यत्र ।विशुद्धरश्मिस्तपनः शशी च जयस्यैतद्भाविनो रूपमाहुः ॥ १७ ॥

Segmented

गम्भीर-घोषाः च महा-स्वनाः च शङ्खा मृदङ्गाः च नदन्ति यत्र विशुद्ध-रश्मिः तपनः शशी च जयस्य एतत् भाविनो रूपम् आहुः

Analysis

Word Lemma Parse
गम्भीर गम्भीर pos=a,comp=y
घोषाः घोष pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
स्वनाः स्वन pos=n,g=m,c=1,n=p
pos=i
शङ्खा शङ्ख pos=n,g=m,c=1,n=p
मृदङ्गाः मृदङ्ग pos=n,g=m,c=1,n=p
pos=i
नदन्ति नद् pos=v,p=3,n=p,l=lat
यत्र यत्र pos=i
विशुद्ध विशुध् pos=va,comp=y,f=part
रश्मिः रश्मि pos=n,g=m,c=1,n=s
तपनः तपन pos=n,g=m,c=1,n=s
शशी शशिन् pos=n,g=m,c=1,n=s
pos=i
जयस्य जय pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
भाविनो भाविन् pos=a,g=m,c=6,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit