Original

प्रतिमाश्चालिखन्त्यन्ये सशस्त्राः कालचोदिताः ।अन्योन्यमभिधावन्ति शिशवो दण्डपाणयः ।उपरुन्धन्ति कृत्वा च नगराणि युयुत्सवः ॥ ९ ॥

Segmented

प्रतिमाः च आलिखन्ति अन्ये स शस्त्राः काल-चोदिताः अन्योन्यम् अभिधावन्ति शिशवो दण्ड-पाणयः उपरुन्धन्ति कृत्वा च नगराणि युयुत्सवः

Analysis

Word Lemma Parse
प्रतिमाः प्रतिमा pos=n,g=f,c=1,n=p
pos=i
आलिखन्ति आलिख् pos=v,p=3,n=p,l=lat
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
शस्त्राः शस्त्र pos=n,g=m,c=1,n=p
काल काल pos=n,comp=y
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिधावन्ति अभिधाव् pos=v,p=3,n=p,l=lat
शिशवो शिशु pos=n,g=m,c=1,n=p
दण्ड दण्ड pos=n,comp=y
पाणयः पाणि pos=n,g=m,c=1,n=p
उपरुन्धन्ति उपरुध् pos=v,p=3,n=p,l=lat
कृत्वा कृ pos=vi
pos=i
नगराणि नगर pos=n,g=n,c=2,n=p
युयुत्सवः युयुत्सु pos=a,g=m,c=1,n=p