Original

प्रासादशिखराग्रेषु पुरद्वारेषु चैव हि ।गृध्राः परिपतन्त्युग्रा वामं मण्डलमाश्रिताः ॥ ४० ॥

Segmented

प्रासाद-शिखर-अग्रेषु पुर-द्वारेषु च एव हि गृध्राः परिपतन्ति उग्राः वामम् मण्डलम् आश्रिताः

Analysis

Word Lemma Parse
प्रासाद प्रासाद pos=n,comp=y
शिखर शिखर pos=n,comp=y
अग्रेषु अग्र pos=n,g=n,c=7,n=p
पुर पुर pos=n,comp=y
द्वारेषु द्वार pos=n,g=n,c=7,n=p
pos=i
एव एव pos=i
हि हि pos=i
गृध्राः गृध्र pos=n,g=m,c=1,n=p
परिपतन्ति परिपत् pos=v,p=3,n=p,l=lat
उग्राः उग्र pos=a,g=m,c=1,n=p
वामम् वाम pos=a,g=n,c=2,n=s
मण्डलम् मण्डल pos=n,g=n,c=2,n=s
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part